This page has not been fully proofread.

भवनीभुजंगम् ।
 
सुनासापुढं सुन्दर भ्रूललाटं
 
तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
 
ललाटे लसगन्धकस्तूरिभूषं
 
स्फुरच्छ्रीमुखाम्भोज मीडेऽहम् ॥ ८ ॥
 
चलत्कुन्तलान्तर्भ्रमद्भृङ्गवृन्दं
वनस्निग्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा-
 
विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥
 
इति श्रीभवानि स्वरूपं तवेदं
 
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वम्ब डिम्भस्य मे हृत्सरोजे
 
सदा वाङ्मयं सर्वतेजोमयं च ॥ १० ॥
 
गणेशाभिमुख्याखिलैः शक्तिवृन्दै -
 
वृतां वै स्फुरच्चक्रराजोल्लसन्तीम् ।
 
परां राजराजेश्वरि त्रैपुरि त्वां
 
२५९
 
शिवाकोपरिस्थां शिवां भावयामि ॥ ११ ॥