2026-02-23 00:05:18 by ambuda-bot
This page has not been fully proofread.
२५६
गौरीदशकम् ।
यस्यामतं प्रोतमशेषं मणिमाला-
सूत्रे यद्वत्कापि चरं चाप्यचरं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८ ॥
नानाकारैः शक्तिकदम्बैर्भुवनानि
व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणी तां कल्पलतामानतिभाजां
गौरी मम्बामम्बुरुहाक्षी महमीडे ॥ ९ ॥
आशापाशक्लेशविनाशं विदधानां
पादाम्भोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धाङ्गहरां तामभिरामां
गौरी मम्बामम्बुरुहाक्षीमहमीडे ॥ १० ॥
प्रातःकाले भावविशुद्धः प्रणिधाना-
द्भक्त्या नित्यं जल्पति गौरीदशकं यः ।
वाचां सिद्धिं संपदमग्र्यां शिवभक्ति
तस्यावश्यं पर्वतपुत्री विधाति ॥ ११ ॥
गौरीदशकम् ।
यस्यामतं प्रोतमशेषं मणिमाला-
सूत्रे यद्वत्कापि चरं चाप्यचरं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८ ॥
नानाकारैः शक्तिकदम्बैर्भुवनानि
व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणी तां कल्पलतामानतिभाजां
गौरी मम्बामम्बुरुहाक्षी महमीडे ॥ ९ ॥
आशापाशक्लेशविनाशं विदधानां
पादाम्भोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धाङ्गहरां तामभिरामां
गौरी मम्बामम्बुरुहाक्षीमहमीडे ॥ १० ॥
प्रातःकाले भावविशुद्धः प्रणिधाना-
द्भक्त्या नित्यं जल्पति गौरीदशकं यः ।
वाचां सिद्धिं संपदमग्र्यां शिवभक्ति
तस्यावश्यं पर्वतपुत्री विधाति ॥ ११ ॥