This page has not been fully proofread.

॥ श्रीः ॥
 
॥ नवरत्नमालिका ॥
 
हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं
 
कारणेशवर मौलिकोटिपरिकल्प्य मानपदपीठिकाम ।
 
कालकालफणिपाशबाणधनुरङ्कशा मरुणमेखलां
फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥ १॥
 
गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं
 
सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् ।
मन्धरायतविलोचनाममलबालचन्द्रकृतशेखरीं
 
इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥ २ ॥
 
स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां
 
हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् ।
 
वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां
 
मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥३॥