This page has not been fully proofread.

कल्याणवृष्टिस्तवः
 
कारत्रयसंपुटेन महता मन्त्रेण संदीपितं
 
२४५
 
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी
वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घ वयः ॥ १६ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
कल्याणवृष्टिस्तवः संपूर्णः ॥