This page has not been fully proofread.

२४२
 
कल्याणवृष्टिस्तवः ।
 
लब्ध्वा सकृत्रिपुरसुन्दरि तावकीनं
 
कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कंदर्पकोटिसुभगास्त्वयि भक्तिभाज:
 
संमोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४ ॥
 
ह्रींकारमेव तव नाम गृणन्ति वेदा
मातत्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
 
दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५ ॥
 
हन्तुः पुरामधिगलं परिपीयमानः
 
क्रूरः
 
कथं न भविता गरलस्य वेगः ।
 
नाश्वासनाय यदि मातरिदं तवार्ध
 
देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६ ॥
 
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
 
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
 
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
 
द्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥