2026-02-23 00:04:33 by ambuda-bot
This page has not been fully proofread.
त्रिपुरसुन्दर्यष्टकम् ।
२३७
कदम्बवनमध्यगां कनकमण्डलोपस्थितां
षडम्बुरुहवासिनी सततसिद्धसौदामिनीम् ।
विडम्बितजपारुचिं विकचचन्द्रचूडामणि '
त्रिलोचन कुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥
कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां
कुशेशयनिवासिनी कुटिलचित्तविद्वेषिणीम् ।
मदारुणविलोचनां मनसिजारिसंमोहिनीं
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥
स्मरेत्प्रथमपुष्पिणीं रुधिर बिन्दुनीलाम्बरां
गृहीतमधुपात्रिक मदविघूर्णनेत्राञ्चलाम् ।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलोचन कुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ६ ॥
सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकां
समन्दह सितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजन मोहिनी मरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७ ॥