This page has not been fully proofread.

२३२
 
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।
 
डमरुडिण्डिमजर्झरझल्लरी-
 
मृदुरवद्रगडगडादयः ।
 
झटिति झाङ्कृतझाङ्कृतझाङ्कृतै-
 
हृदयं हृदयं सुखयन्तु ते ॥ ५६ ॥
 
विपीषु सप्तस्वरान्वादयन्त्य-
 
स्तव द्वारि गायन्ति गन्धर्वकन्या: ।
क्षणं सावधानेन चित्तेन मात:
 
समाकर्णयत्वं मया प्रार्थितासि ॥ ५७ ॥
 
अभिनयकमनीयैर्नर्तनैर्नर्तकीनां
 
क्षणमपि रमयित्वा चेत एतत्त्वदीयम् ।
स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै-
 
भगवति भवदीयं मानसं रञ्जयामि ॥ ५८ ॥
 
तव देवि गुणानुवर्णने
 
चतुरानो चतुराननादयः ।
 
तदिहैकमुखेषु जन्तुषु
 
स्तवनं कस्तव कर्तुमीश्वरः ॥ ५९ ॥