2026-03-26 04:37:40 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । २१७
</ignore>
<verse>विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं
प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु ।
चित्तं त्वत्पद्दभावने व्यभिचरेद्दृग्वाक्च मे जातु चे-
त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥
</verse>
<verse>काहं मन्दमतिः क्व चेदमखिलैरे कान्तभक्तैः स्तुतं
ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम् ।
कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदं
स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥
</verse>
<verse>नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया ।
निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ॥ १२७ ॥
</verse>
<trailer>इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्री गोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
त्रिपुरसुन्दरीमानसपूजास्तोत्रं
संपूर्णम् ॥
</trailer>
</page>
<ignore>त्रिपुरसुन्दरीमानसपूजास्तोत्रम् । २१७
<verse>विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं
प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु ।
चित्तं त्वत्प
त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥
<verse>काहं मन्दमतिः क्व चेदमखिलैरे

श्री
श्रीमच्छंकरभगवतः कृतौ
त्रिपुरसुन्दरीमानसपूजास्तोत्रं
संपूर्णम् ॥
</page>