2026-02-23 01:10:49 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१२
</ignore>
<ignore>सुब्रह्मण्यभुजंगम् ।
</ignore>
<verse>अहं सर्वदा दुःखभारावसन्नो
भवान्दीनबन्धुस्त्वदन्यं न याचे ।
भवद्भक्तिरोधं सदा कॢप्रतबाधं
ममाधिं द्रुतं नाशयोमासुत त्वम् ॥ २४ ॥
</verse>
<verse>अपस्मारकुष्ठक्षयार्श: प्रमेह-
ज्वरोन्माद गुल्मादिरोगा महान्तः ।
पिशाचाश्च सर्वे भवत्पत्रभूतिं
विलोक्य क्षणात्तारकारे द्रवन्ते ॥ २५ ॥
</verse>
<verse>दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति-
र्मुखे मे पवित्रं सदा तच्चरित्रम् ।
करे तस्य कृत्यं वपुस्तस्य भृत्यं
गुहे सन्तु लीना ममाशेषभावाः ॥ २६ ॥
</verse>
<verse>मुनीनामुताहो नृणां भक्तिभाजा-
मभीष्टप्रदाः सन्ति सर्वत्र देवा: ।
नृणामन्त्यजानामपि स्वार्थदाने
गुहाद्देवमन्यं न जाने न जाने ॥ २७ ॥
</verse>
</page>
<ignore>१२
<ignore>सुब्रह्मण्यभुजंगम् ।
<verse>अहं सर्वदा दुःखभारावसन्नो
भवान्दीनबन्धुस्त्वदन्यं न याचे ।
भवद्भक्तिरोधं सदा कॢप्
ममाधिं द्रुतं नाशयोमासुत त्वम् ॥ २४ ॥
<verse>अपस्मारकुष्ठक्षयार्श: प्रमेह-
ज्वरोन्माद
पिशाचाश्च सर्वे भवत्पत्रभूतिं
विलोक्य क्षणात्तारकारे द्रवन्ते ॥ २५ ॥
<verse>दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति-
र्मुखे मे पवित्रं सदा तच्चरित्रम् ।
करे तस्य कृत्यं वपुस्तस्य भृत्यं
गुहे सन्तु लीना ममाशेषभावाः ॥ २६ ॥
<verse>मुनीनामुताहो नृणां भक्तिभाजा-
मभीष्टप्रदाः सन्ति सर्वत्र देवा: ।
नृणामन्त्यजानामपि स्वार्थदाने
गुहाद्देवमन्यं न जाने न जाने ॥ २७ ॥
</page>