This page has been fully proofread once and needs a second look.

<page>
<ignore>
सुब्रह्मण्यभुजंगम् ।
 
</ignore>
<verse>
प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे
 

फोद्वागारिवक्त्रे भयो त्कम्पिगात्रे 1

प्रयाणोन्मुखे मय्यनाथे तदानीं
 

द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥ २० ॥
 
</verse>
<verse>
कृतान्तस्य दूतेषु चण्डेषु कोपा-
 

द्
दह च्छिन्द्धि भिन्द्वीधीति मां तर्जयत्सु ।
 

मयूरं समारुह्य मा भैरिति त्वं
 

पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥ २१ ॥
 
</verse>
<verse>
प्रणम्यासकृत्पादयोस्ते पतित्वा
 

प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् ।

न वक्तुं क्षमोऽहं तदानीं कृपाब्धे
 

न कार्यान्तकाले मनागप्युपेक्षा ॥ २२ ॥
 
</verse>
<verse>
सहस्राण्डभोक्ता त्वया शूरनामा
 

हतस्तारकः सिंहवक्त्रश्च दैत्यः ।
 

ममान्तर्हृदिस्थं मनः क्लेशमेकं
 
११
 

न हंसि प्रभो किं करोमि क्व यामि ॥ २३ ॥
 
</verse>
</page>