This page has not been fully proofread.

१९२
 
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
 
सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां
 
जृम्भामजुमुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् ।
सेवायातसमस्तसंनिधिसखीः संमानयन्तीं दृशा
संपश्यन्परदेवतां परमहो मन्ये कृतार्थ जनुः ॥ २४ ॥
 
उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते
भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते ।
नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां
 
प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम ॥
 
पाद्यं ते परिकल्पयामि पदयोरर्घ्य तथा हस्तयो:
सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादय ।
तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं
साष्टाङ्गं प्रणिपातमीशदयिते दृष्टया कृतार्थी कुरु ॥
 
मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे
देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् ।
सुप्रक्षालितमाननं विरचयन्स्निग्धाम्बरप्रोव्छनं
 
द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमास्वादय ॥ २७ ॥