This page has not been fully proofread.

१९०
 
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
 
इन्द्रादींश्च दिगीश्वरान्सहपरीवारानथो सायुधा-
न्योषिद्रूपधरान्स्वदिक्षु निहितान्संचिन्त्य हृत्पङ्कजे ।
शङ्के श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर-
कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥
 
गायन्तीः कलवीणयातिमधुरं हुंकारमातन्वती-
द्वाराभ्यासकृत स्थितीरिह सरस्वत्यादिकाः पूजयन ।
द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां
मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे ॥ १७ ॥
 
कस्तूरिकाश्यामलकोमलाङ्गी
कादम्बरीपानमदालसाङ्गीम ।
वामस्तनालिङ्गितरत्नवीणां
 
मातङ्गकन्यां मनसा स्मरामि ॥ १८ ॥
 
विकीर्णचित्रे विगलिताम्बराडम्बरे
 
मदाकुलितलोचने विमलभूषणोद्भासिनि ।
तिरस्करिणि तावकं चरणपङ्कजं चिन्तय-
 
न्करोमि पशुमण्डलीमलिक मोहदुग्धाशयाम् ॥ १९ ॥