This page has been fully proofread once and needs a second look.

<page>
<ignore>
१८८
 
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
 
का
</ignore>
<verse>क्वा
पि प्रोद्भटपद्मरागकिरणत्व्रातेन संध्यायितं
 

कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् ।

मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि-

न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥
 
</verse>
<verse>
उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-
 

न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया ।
 

नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते-

र्
वल्गावल्गितहस्त मस्तशिखरं कष्टैरितः प्राप्यते ॥ ९ ॥
 
</verse>
<verse>
मणिसदनसमुद्यत्कान्तिधारानुरके
 
क्ते
वियति चरमसंध्याशङ्किनो भानुरथ्याः ।

शिथिलितगत कुप्यत्सूत हुंकारनादैः
 

कथमपि मणिगेहादुच्चकै रुन्च्चलन्ति ॥ १० ॥
 
</verse>
<verse>
भक्त्या किं
 
नु समर्पितानि बहुधा रत्नानि पाथोधिना

किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् ।

आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते

शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥
 
</verse>
</page>