2026-02-23 00:02:30 by ambuda-bot
This page has not been fully proofread.
१८८
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
कापि प्रोपद्मरागकिरणत्रातेन संध्यायितं
कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् ।
मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि-
न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥
उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-
न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया ।
नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मते-
वल्गावल्गितहस्त मस्तशिखरं कष्टैरितः प्राप्यते ॥ ९ ॥
मणिसदनसमुद्यत्कान्तिधारानुरके
वियति चरमसंध्याशङ्किनो भानुरथ्याः ।
शिथिलितगत कुप्यत्सूत हुंकारनादैः
कथमपि मणिगेहादुच्चकै रुन्चलन्ति ॥ १० ॥
भक्त्या किं
नु समर्पितानि बहुधा रत्नानि पाथोधना
किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् ।
आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते
शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥