This page has been fully proofread once and needs a second look.

11 eft: 11
 
<page>
<subtitle>॥ श्रीः ॥</subtitle>
<title>
॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ॥
 
</title>
<verse>
मम न भजनशक्तिः पादयोस्ते न भक्ति-

र्न च विषयविरक्तिर्ध्यानयोगे न सक्ति:तिः

इति मनसि सदाहं चिन्तयन्नाद्यशक्ते

रुचिरवचनपुष्पैरर्चनं संचिनोमि ॥ १ ॥
 
</verse>
<verse>
व्याप्तं हाटकविग्रहैर्जलचरैरारूढ देवव्रजै:
जैः
पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् ।

आरक्तामृतसिन्धुमुद्धरचलद्वीचीच यव्याकुल-
 

व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव ॥ २ ॥
 
</verse>
<verse>
तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं
 

कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वत:तः

उच्चैः शृङ्गनिषण्णदि व्यवनिता बृन्दाननप्रोल्लस-

द्
गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥ ३ ॥
 
</verse>
</page>