2026-02-23 00:02:25 by ambuda-bot
This page has not been fully proofread.
11 eft: 11
॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ॥
मम न भजनशक्तिः पादयोस्ते न भक्ति-
र्न च विषयविरक्तिर्ध्यानयोगे न सक्ति: ।
इति मनसि सदाहं चिन्तयन्नाद्यशक्ते
रुचिरवचनपुष्पैरर्चनं संचिनोमि ॥ १ ॥
व्याप्तं हाटकविग्रहैर्जलचरैरारूढ देवव्रजै:
पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् ।
आरक्तामृतसिन्धुमुद्धरचलद्वीचीच यव्याकुल-
व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव ॥ २ ॥
तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं
कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वत: ।
उच्चैः शृङ्गनिषण्णदि व्यवनिता बृन्दाननप्रोल्लस-
गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥ ३ ॥