This page has not been fully proofread.

१८२
 
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
 
तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते
मौलिश्रेण्या भूभुजस्तं नमन्ति ।
यः स्तौति त्वामम्ब चिल्लिवाचा
 
तं धीरासः कवय उन्नयन्ति ॥ ९५ ॥
 
वैरिवधैर्विष्णुरुद्रेन्द्रवृन्दै-
दुर्गाकालभैरवीशक्तिसंधैः ।
यन्त्रेश त्वं वर्तसे स्तूयमाना
 
न तत्र सूर्यो भाति न चन्द्रतारकम् ॥ ९६ ॥
 
भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः ।
 
त्वामानम्य समृद्धाः स्युरायो धामानि दिव्यानि ॥ ९७ ॥
 
पुष्पवत्पुल्लताटङ्कां प्रातरादित्यपाटलाम् ।
 
यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे ॥ ९८ ॥
 
वश्ये विद्रुमसंकाशां विद्यायां विशदप्रभाम् ।
 
त्वामम् भावयेद्भूत्यै सुवर्णा हेममालिनीम् ॥ ९९ ॥