2026-02-23 01:01:34 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>सुब्रह्मण्यभुजंगम् ।
</ignore>
<verse>यदा संनिधानं गता मानवा मे
भवाम्भोधिपारं गतास्ते तदैव ।
इति व्यञ्जयन्सिन्धुतीरे य आस्ते
तमीडे पवित्रं पराशक्तिपुत्रम् ॥ ४ ॥
</verse>
<verse>यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा-
स्तथैवापदः संनिधौ सेवतां मे ।
इतीवोर्मिपङ्कीक्तीर्नृणां दर्शयन्तं
सदा भावये हृत्सरोजे गुहं तम् ॥ ५ ॥
</verse>
<verse>गिरौ मन्निवासे नरा येऽधिरूढा -
स्तदा पर्वते राजते तेऽधिरूढाः ।
इतीव ब्रुवन्गन्धशैलाधिरूढः
स देवो मुदे मे सदा षण्मुखोऽस्तु ॥ ६ ॥
</verse>
<verse>महाम्भोधितीरे महापापचोरे
मुनीन्द्रानुकूले सुगन्धाख्यशैले ।
गुहायां वसन्तं स्वभासा लसन्तं
जनार्तितिं हरन्तं श्रयामो गुहं तम् ॥ ७ ॥
</verse>
</page>
<ignore>सुब्रह्मण्यभुजंगम् ।
<verse>यदा संनिधानं गता मानवा मे
भवाम्भोधिपारं गतास्ते तदैव ।
इति व्यञ्जयन्सिन्धुतीरे य आस्ते
तमीडे पवित्रं पराशक्तिपुत्रम् ॥ ४ ॥
<verse>यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा-
स्तथैवापदः संनिधौ सेवतां मे ।
इतीवोर्मिपङ्
सदा भावये हृत्सरोजे गुहं तम् ॥ ५ ॥
<verse>गिरौ मन्निवासे नरा येऽधिरूढा
स्तदा पर्वते राजते तेऽधिरूढाः ।
इतीव ब्रुवन्गन्धशैलाधिरूढः
स देवो मुदे मे सदा षण्मुखोऽस्तु ॥ ६ ॥
<verse>महाम्भोधितीरे महापापचोरे
मुनीन्द्रानुकूले सुगन्धाख्यशैले ।
गुहायां वसन्तं स्वभासा लसन्तं
जनार्
</page>