This page has been fully proofread once and needs a second look.

<page>
<ignore>
१३८
 
सौन्दर्य ।
 
</ignore>
<verse>
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
 

पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।

इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके

तवाकर्णाकृष्टस्मरशर विलासं कलयतः
 
॥ ५२ ॥</verse>
<verse>
विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया

विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।

पुनः स्रष्टुं देवान्द्रुहिणहरिरुद्रानुपरता-
 
५२ ॥
 

न्
रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३ <error>
 
</error><fix>॥</fix></verse>
<verse>
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
 

दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।
 

नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
 

त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४ ॥
 
</verse>
<verse>
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
 

तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।
 

त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयत:
 
तः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृश:शः ॥ ५५ ॥
 
</verse>
</page>