This page has not been fully proofread.

१३८
 
सौन्दर्य ।
 
गते कर्णाभ्यर्ण गरुत इव पक्ष्माणि दधती
 
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्टस्मरशर विलासं कलयतः
 
विभक्तत्रैवर्ण्य व्यतिकरितलीलाञ्जनतया
विभाति त्वनेत्रत्रितयमिदमीशानदयिते ।
पुनः स्रष्टुं देवान्द्रुहिणहरिरुद्रानुपरता-
 
५२ ॥
 
रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३ ।
 
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
 
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।
 
नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
 
त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४ ॥
 
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
 
तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।
 
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयत:
 
परित्रातुं शङ्के परिहृतनिमेषास्तव दृश: ॥ ५५ ॥