2026-03-26 04:18:27 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१३६
सौन्दर्यलहरी ।
</ignore>
<verse>तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-
परीवाह:हः स्रोतः सरणिरिव सीमन्तसरणिः ।
वहन्ती सिन्दूरं प्रबलकबरी भारतिमिर-
द्विषां वृन्देदैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ ४४ ॥
</verse>
<verse>अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं ते वक्तंत्रं परिहसति पङ्केरुहरुचिम् ।
दरस्मेरे यस्मिन्दशन रुचिकिञ्जल्क रुचिरे
सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५ ॥
</verse>
<verse>ललाटं लावण्यद्युतिविमलमाभाति तव य-
द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यासन्यासादुभयमपि संभूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६ ॥
</verse>
<verse>भ्रुवौ भुझेग्ने किंचिद्भुवनभयभङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७ ॥
</verse>
</page>
<ignore>१३६
<verse>तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-
परीवा
वहन्ती सिन्दूरं प्रबलकबरी
द्विषां वृन्
<verse>अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
परीतं ते वक्
दरस्मेरे यस्मिन्दशन
सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५ ॥
<verse>ललाटं लावण्यद्युतिविमलमाभाति तव य-
द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यासन्यासादुभयमपि संभूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६ ॥
<verse>भ्रुवौ भु
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७ ॥
</page>