This page has not been fully proofread.

१३६
 
सौन्दर्यलहरी ।
 
तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-
 
परीवाह: स्रोतः सरणिरिव सीमन्तसरणिः ।
वहन्ती सिन्दूरं प्रबलकबरी भारतिमिर-
 
द्विषां वृन्देन्दीकृतमिव नवीनार्ककिरणम् ॥ ४४ ॥
 
अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः
 
परीतं ते वक्तं परिहसति पङ्केरुहरुचिम् ।
 
दरस्मेरे यस्मिन्दशन रुचिकिञ्जल्क रुचिरे
 
सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५ ॥
 
ललाटं लावण्यद्युतिविमलमाभाति तव य-
 
द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यासन्यासादुभयमपि संभूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६ ॥
 
वौ भुझे किंचिद्भुवनभयभङ्गव्यसनिनि
 
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
 
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७ ॥