2026-03-26 04:13:10 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१३४
सौन्दर्यलहरी ।
</ignore>
<verse>तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शंभुं वन्दे परिमिलितपार्श्ववं परचिता ।
यमाराध्यन्भक्त्या रविशशिशुचीनामविषये
निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६ ॥
</verse>
<verse>विशुद्धधौ ते शुद्धस्फटिकविशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
र्विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७ ॥
</verse>
<verse>समुन्मीलत्संवित्कमलमकरन्दैकरसिकं
भजे हंस द्वन्द्वं किमपि महतां मानसचरम् ।
यदालापादष्टादशगुणितविद्यापरिणति-
र्यदादत्ते दोषाद्गुणमखिलमद्भभ्यः पय इव ॥ ३८ ॥
</verse>
<verse>तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्ततं जननि महतीं तां च समयाम् ।
यदालोके लोकान्दहति महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९ ॥
</verse>
</page>
<ignore>१३४
<verse>तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शंभुं वन्दे परिमिलितपार्श्
यमाराध्यन्भक्त्या रविशशिशुचीनामविषये
निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६ ॥
<verse>विशुद्
शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
र्विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७ ॥
<verse>समुन्मीलत्संवित्कमलमकरन्दैकरसिकं
भजे हंस
यदालापादष्टादशगुणितविद्यापरिणति-
र्यदादत्ते दोषाद्गुणमखिलमद्
<verse>तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्
यदालोके लोकान्दहति महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९ ॥
</page>