2026-02-23 00:00:50 by ambuda-bot
This page has not been fully proofread.
१३४
सौन्दर्यलहरी ।
तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शंभुं वन्दे परिमिलितपार्श्व परचिता ।
यमाराध्यन्भक्त्या रविशशिशुचीनामविषये
निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६ ॥
विशुद्ध ते शुद्धस्फटिकविशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७ ॥
समुन्मीलत्संवित्कमलमकरन्दैकरसिकं
भजे हंस द्वन्द्वं किमपि महतां मानसचरम् ।
यदालापादष्टादशगुणितविद्यापरिणति-
दादत्ते दोषाद्गुणमखिलमद्भयः पय इव ॥ ३८ ॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमी संवर्त जननि महतीं तां च समयाम् ।
यदालोके लोकान्दहति महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९ ॥