This page has been fully proofread once and needs a second look.

<page>
<ignore>
सौन्दर्यलहरी ।
 
१३३</ignore>
<verse>
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरण:
 
णः
स्मरो हंसः शक्रस्तदनु च परामारहरयः ।

अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
 
१३३
 

भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२ ॥
 
</verse>
<verse>
स्मरं योनिं लक्ष्मीमीं त्रितयमिदमादौ तव मनो-

र्
निधायैके नित्ये निरवधिमहाभोगरसिकाः ।

भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलया:
याः
शिवानौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३ ॥
 
</verse>
<verse>
शरीरं त्वं शंभो:भोः शशिमिहिर वक्षोरुहयुगं
 

तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
 

अतः शेषः शेषीत्ययमुभयसाधारणतया
 

स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥ ३४ ॥
 
</verse>
<verse>
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
 

त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।

त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
 

चिदानन्दाकारं शिवयुवति भावेन विभूषे ॥ ३५ ॥
 
</verse>
</page>