This page has not been fully proofread.

सौन्दर्यलहरी ।
 
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरण:
 
स्मरो हंसः शक्रस्तदनु च परामारहरयः ।
अमी लेखाभिस्तिसृभिरवसानेषु घटिता
 
१३३
 
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२ ॥
 
स्मरं योनिं लक्ष्मी त्रितयमिदमादौ तव मनो-
निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलया:
शिवानौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३ ॥
 
शरीरं त्वं शंभो: शशिमिहिर वक्षोरुहयुगं
 
तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
 
अतः शेषः शेषीत्ययमुभयसाधारणतया
 
स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥ ३४ ॥
 
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
 
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
 
चिदानन्दाकारं शिवयुवति भावेन विभूषे ॥ ३५ ॥