2026-03-04 06:36:53 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>६४
</ignore>
<ignore>निर्वाणषट्कम् ।
</ignore>
<verse>न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थथं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ४ ॥
</verse>
<verse>न मृत्युर्न शङ्का न मे जातिभेद:
दः
पिता नैव मे नैव माता च जन्म ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्य-
श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ५ ॥
</verse>
<verse>अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चासंगतं नैव मुक्तिर्न बन्ध-
श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ६।
॥</verse>
<trailer>इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
निर्वाणषट्कं संपूर्णम् ॥
</trailer>
</page>
<ignore>६४
<ignore>निर्वाणषट्कम् ।
<verse>न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ४ ॥
<verse>न मृत्युर्न शङ्का न मे जातिभे
पिता नैव मे नैव माता च जन्म ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्य-
श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ५ ॥
<verse>अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चासंगतं नैव मुक्तिर्न बन्ध-
श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ६
<trailer>इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
निर्वाणषट्कं संपूर्णम् ॥
</page>