This page has not been fully proofread.

६४
 
निर्वाणषट्कम् ।
 
न पुण्यं न पापं न सौख्यं न दुःखं
 
न मन्त्रो न तीर्थ न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
 
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ४ ॥
 
न मृत्युर्न शङ्का न मे जातिभेद:
 
पिता नैव मे नैव माता च जन्म ।
 
न बन्धुर्न मित्रं गुरुर्नैव शिष्य-
 
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ५ ॥
 
अहं निर्विकल्पो निराकाररूपो
 
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
 
न चासंगतं नैव मुक्तिर्न बन्ध-
 
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ६ ।
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
निर्वाणषट्कं संपूर्णम् ॥