2026-03-04 06:35:45 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<subtitle>॥ श्रीः ॥</subtitle>
<title>॥ निर्वाणषटट्कम् ॥</title>
<verse>मनोबुद्ध्यहंकारचित्तानि नाहं
न कर्णे न जिह्वा न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायु-
श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १ ॥</verse>
<verse>न च प्राणसंज्ञो न वै पञ्चवायु-
र्न वा सप्तधातुर्न वा पञ्चकोशः ।
न वाक्पाणिपादौ न चोपस्थपायू
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २ ॥</verse>
<verse>न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्ष-
श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ३ ॥</verse>
</page>
<subtitle>॥ श्रीः ॥</subtitle>
<title>॥ निर्वाणष
<verse>मनोबुद्ध्यहंकारचित्तानि नाहं
न कर्णे न जिह्वा न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायु-
श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १ ॥</verse>
<verse>न च प्राणसंज्ञो न वै पञ्चवायु-
र्न वा सप्तधातुर्न वा पञ्चकोशः ।
न वाक्पाणिपादौ न चोपस्थपायू
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २ ॥</verse>
<verse>न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्ष-
श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ३ ॥</verse>
</page>