This page has not been fully proofread.

॥ श्रीः ॥
 
॥ निर्वाणषटकम् ॥
 
मनोबुद्धयहंकारचित्तानि नाहं
न कर्णे न जिह्वा न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायु-
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १ ॥
 
न च प्राणसंज्ञो न वै पञ्चवायु-
 
र्न वा सप्तधातुर्न वा पञ्चकोशः ।
 
न वाक्पाणिपादौ न चोपस्थपायू
 
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २ ॥
 
न मे द्वेषरागौ न मे लोभमोहौ
 
मदो नैव मे नैव मात्सर्यभावः ।
 
न धर्मो न चार्थो न कामो न मोक्ष-
 
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ३ ॥