2026-03-22 04:46:48 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>तत्त्वोपदेशः ।
२०५</ignore>
<verse>पण्डितस्तत्र मेधावी युक्त्या वस्तु विचारयन् ।
निदिध्यासनसंपन्नः प्राप्तो हि त्वं परं पदम् ॥ ७७ ॥
</verse>
<verse>अतो ब्रह्मात्मविज्ञानमुपदिष्टं यथाविधि ।
मयाचार्येण ते धीर सम्यक्तत्र प्रयत्नवान् ॥ ७८ ॥
</verse>
<verse>भूत्वा विमुक्तबन्धस्त्वं छिन्नद्वैतात्मसंशयः ।
निर्द्वन्द्वो निःस्पृहो भूत्वा विचरस्व यथासुखम् ॥ ७९ ॥
</verse>
<verse>वस्तुतो निष्प्रपश्वोञ्चोऽसि नित्यमुक्त:तः स्वभावतः ।
२०५
न ते बन्धविमोक्षौ स्तः कल्पितौ तौ यतस्त्वयि ॥ ८० ॥
</verse>
<verse>न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ८१ ॥
</verse>
<verse>श्रुतिसिद्धान्तसारोऽयं तथैव त्वं स्वया धिया ।
संविचार्य निदिध्यास्य निजानन्दात्मकं परम् ॥ ८२ ॥
</verse>
<verse>साक्षात्कृत्वा परिच्छिन्नाद्वैत ब्रह्माक्षरं स्वयम् ।
जीवन्नेव विनिर्मुक्तो विश्रान्तः शान्तिमाश्रय ॥ ८३ ॥
</verse>
<verse>विचारणीया वेदान्ता वन्दनीयो गुरुः सदा ।
गुरूणां वचनं पथ्यं दर्शनं सेवनं नृणाम् ॥ ८४ ॥
</verse>
</page>
<ignore>तत्त्वोपदेशः ।
<verse>पण्डितस्तत्र मेधावी युक्त्या वस्तु विचारयन् ।
निदिध्यासनसंपन्नः प्राप्तो हि त्वं परं पदम् ॥ ७७ ॥
<verse>अतो ब्रह्मात्मविज्ञानमुपदिष्टं यथाविधि ।
मयाचार्येण ते धीर सम्यक्तत्र प्रयत्नवान् ॥ ७८ ॥
<verse>भूत्वा विमुक्तबन्धस्त्वं छिन्नद्वैतात्मसंशयः ।
निर्द्वन्द्वो निःस्पृहो भूत्वा विचरस्व यथासुखम् ॥ ७९ ॥
<verse>वस्तुतो निष्प्रप
२०५
न ते बन्धविमोक्षौ स्तः कल्पितौ तौ यतस्त्वयि ॥ ८० ॥
<verse>न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ८१ ॥
<verse>श्रुतिसिद्धान्तसारोऽयं तथैव त्वं स्वया धिया ।
संविचार्य निदिध्यास्य निजानन्दात्मकं परम् ॥ ८२ ॥
<verse>साक्षात्कृत्वा परिच्छिन्नाद्वैत