2026-03-22 03:25:51 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२०२
तत्त्वोपदेशः ।
</ignore>
<verse>सदसन्न विरुद्धत्वादतोऽनिर्वाच्यमेव तत् ।
यः पूर्वमेक एवासीत्सृष्ट्वा पश्चादिदं जगत् ॥ ५३ ॥
</verse>
<verse>प्रविष्टो जीवरूपेण स एवात्मा भवान्परः ।
सच्चिदानन्द एव त्वं विस्मृत्यात्मतया परम् ॥ ५४ ॥
</verse>
<verse>जीवभावमनुप्राप्तः स एवात्मासि बोधतः ।
अद्वयानन्दचिन्मात्रः शुद्धः साम्राज्यमागतः ॥ ५५ ॥
</verse>
<verse>कर्तृत्वादीनि यान्यासंस्त्वयि ब्रह्माद्वये परे ।
तानीदानीं विचार्य त्वं किंस्वरूपाणि वस्तुतः ॥ ५६ ॥
</verse>
<verse>अत्रैव शृणु वृत्तान्तमपूर्ववं श्रुतिभाषितम् ।
कश्चिद्गान्धारदेशीयो महारत्नविभूषितः ॥ ५७ ॥
</verse>
<verse>स्वगृहे स्वाङ्गणे सुप्तः प्रमत्तः सन्कदाचन ।
रात्रौ चौर:रः समागत्य भूषणानां प्रलोभितः ॥ ५८ ॥
</verse>
<verse>बद्धाध्वा देशान्तरं चौरैर्नीतः सन्गहने वने ।
भूषणान्यपहृत्यापि बद्धाक्षकरपादक:कः ॥ ५९ ॥
</verse>
<verse>निक्षिप्तो विपिनेऽतीव कुशकण्टकवृश्चिकैः ।
व्यालव्याघ्रादिभिश्चैव संकुले तरुसंकटे ॥ ६० ॥
</verse>
</page>
<ignore>२०२
<verse>सदसन्न विरुद्धत्वादतोऽनिर्वाच्यमेव तत् ।
यः पूर्वमेक एवासीत्सृष्ट्वा पश्चादिदं जगत् ॥ ५३ ॥
<verse>प्रविष्टो जीवरूपेण स एवात्मा भवान्परः ।
सच्चिदानन्द एव त्वं विस्मृत्यात्मतया परम् ॥ ५४ ॥
<verse>जीवभावमनुप्राप्तः स एवात्मासि बोधतः ।
अद्वयानन्दचिन्मात्रः शुद्धः साम्राज्यमागतः ॥ ५५ ॥
<verse>कर्तृत्वादीनि यान्यासंस्त्वयि ब्रह्माद्वये परे ।
तानीदानीं विचार्य त्वं किंस्वरूपाणि वस्तुतः ॥ ५६ ॥
<verse>अत्रैव शृणु वृत्तान्तमपूर्
कश्चिद्गान्धारदेशीयो महारत्नविभूषितः ॥ ५७ ॥
<verse>स्वगृहे स्वाङ्गणे सुप्तः प्रमत्तः सन्कदाचन ।
रात्रौ चौ
<verse>बद्
भूषणान्यपहृत्यापि बद्धाक्षकरपाद