This page has been fully proofread once and needs a second look.

<page>
<ignore>
तत्त्वोपदेशः ।
 
१९९</ignore>
<verse>
अयं सः सोऽयमितिवत्संबन्धो भवति द्वयोः ।
 

प्रत्यक्त्वं सद्वितीयत्वं परोक्षत्वं च पूर्णता ॥ २९ ॥
 
</verse>
<verse>
परस्परविरुद्धं स्यात्ततो भवति लक्षणा ।
 

लक्ष्यलक्षण संबन्धः पदार्थप्रत्यगात्मनोः ॥ ३० ॥
 
</verse>
<verse>
मानान्तरोपरोधाश्च्च मुख्यार्थस्यापरिग्रहे ।

मुख्यार्थस्याविनाभूतंते प्रवृत्तिर्लक्षणोच्यते ॥ ३१ ॥
 
</verse>
<verse>
त्रिविधा लक्षणा ज्ञेया जहत्यजती तथा ।

अन्योभयात्मिका ज्ञेया तत्राद्या नैव संभवेत् ॥ ३२ ॥
 
</verse>
<verse>
वाच्यार्थमखिलं त्यक्त्वा वृत्तिः स्याद्या तदन्विते ।

गङ्गायां घोष इतिवज्जहती लक्षणा हि सा ॥ ३३ ॥
 
</verse>
<verse>
वाच्यार्थस्यैकदेशस्य प्रकृते त्याग इष्यते ।

जहती संभवेन्नैव संप्रदायविरोधत ॥ ३४ ॥
 
</verse>
<verse>
वाच्यार्थमपरित्यज्य वृत्तिरन्यार्थके तु या ।

कथितेयमजहती शोणोऽयं धावतीतिवत् ॥ ३५ ॥
 
</verse>
<verse>
न संभवति साप्यत्र वाच्यार्थेऽतिविरोधत: ।
तः ।
विरोधांशपरित्यागो दृश्यते प्रकृते यतः ॥ ३६ ॥
 
१९९
 
</verse>
</page>