2026-03-22 03:11:26 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>तत्त्वोपदेशः ।
१९७</ignore>
<verse>सुप्तौ देहाद्यभावेऽपि साक्षी तेषां भवान्यत: ।
तः ।
स्वानुभूतिस्वरूपत्वान्नान्यस्तम्यास्ति भासकः ॥ १३ ॥
१९.
</verse>
<verse>प्रमाणं बोधयन्तं तं बोधं मानेन ये जनाः ।
बुभुत्स्यन्ते त एधोभिर्दग्धुं वाञ्छन्ति पावकम् ॥ १४ ॥
</verse>
<verse>विश्वमात्मानुभवति तेनासौ नानुभूयते ।
विश्व प्रकाशयत्यात्मा तेनासौ न प्रकाश्यते ॥ १५ ॥
</verse>
<verse>ईदृशं तादृशं नैतन्न परोक्षं सदेव यत् ।
तद्ब्रह्म त्वं न देहादिदृश्यरूपोऽसि सर्वदृक् ॥ १६ ॥
</verse>
<verse>इदंत्वेनैव यद्भाति सर्वं तच्च निषिध्यते ।
अवाच्यतत्त्वमनिदं न वेद्यं स्वप्रकाशतः ॥ १७ ॥
</verse>
<verse>सत्यं ज्ञानमनन्तं च ब्रह्मलक्षणमुच्यते ।
सत्यत्वाज्ज्ञानरूपत्वादनन्तत्वात्त्वमेव हि ॥ १८ ॥
</verse>
<verse>सति देहाद्युपाधौ स्याज्जीवस्तस्य नियामक: ।
कः ।
ईश्वरः शक्त्युपाधित्वाद्द्वयोर्बाधे स्वयंप्रभः ॥ १९ ॥
</verse>
<verse>अपेक्ष्यतेऽखिलैर्मानैर्न यन्मानमपेक्षते ।
वेदवाक्यं प्रमाणं तद्ब्रह्मात्मावगतौ मतम् ॥ २० ॥
</verse>
</page>
<ignore>तत्त्वोपदेशः ।
<verse>सुप्तौ देहाद्यभावेऽपि साक्षी तेषां भवान्य
स्वानुभूतिस्वरूपत्वान्नान्यस्तम्यास्ति भासकः ॥ १३ ॥
१९.
<verse>प्रमाणं बोधयन्तं तं बोधं मानेन ये जनाः ।
बुभुत्स्यन्ते त एधोभिर्दग्धुं वाञ्छन्ति पावकम् ॥ १४ ॥
<verse>विश्वमात्मानुभवति तेनासौ नानुभूयते ।
विश्व प्रकाशयत्यात्मा तेनासौ न प्रकाश्यते ॥ १५ ॥
<verse>ईदृशं तादृशं नैतन्न परोक्षं सदेव यत् ।
तद्ब्रह्म त्वं न देहादिदृश्यरूपोऽसि सर्वदृक् ॥ १६ ॥
<verse>इदंत्वेनैव यद्भाति सर्वं तच्च निषिध्यते ।
अवाच्यतत्त्वमनिदं न वेद्यं स्वप्रकाशतः ॥ १७ ॥
<verse>सत्यं ज्ञानमनन्तं च ब्रह्मलक्षणमुच्यते ।
सत्यत्वाज्ज्ञानरूपत्वादनन्तत्वात्त्वमेव हि ॥ १८ ॥
<verse>सति देहाद्युपाधौ स्याज्जीवस्तस्य नियाम