This page has been fully proofread once and needs a second look.

<page>
<ignore>
१६८
 
हस्तामलकीयभाष्यम् ।
 
1
 
---
 
</ignore>
<p merge-next="true">
पिण्डान्तरे प्रत्यभिज्ञायमानत्वात् भेदेनावगम्यते; अतः प्र-

त्यक्षेणैव भेदाभेदयोः प्रतीयमानत्वात् अविरोध इति--- नैत-

त्साधु मन्यामहे, प्रत्यक्षस्य अन्यथासिद्धत्वात् --- भिन्नमपि हि

वस्तु प्रत्यक्षेण अत्यन्तसंनिधानादिदोषात् अभिन्नवत्प्रतीयते-
--
यथा दीपज्वाला भिन्नापि कुतश्चित्कारणादभिन्नवत्प्रतिभा-

सन्ते, तथा अभिन्नमपि वस्तु भिन्नमिव प्रतिभासते --- यथा

एकस्माच्चन्द्राद्द्वितीयश्चन्द्र इति - अत:--- अतः प्रत्यक्षस्य अन्यथा -
-
सिद्धत्वात् न तेन प्रत्यक्षेण प्रमाणसिद्धस्य भेदाभेदविरो-

धस्य प्रतिक्षेपो युक्त इति । अथैवमुच्यते--- चैतन्यस्य द्वे रूपे

स्तः, आत्मस्वरूपता चैतन्यस्वरूपता चेति । तत्र आत्मस्वरू-

पतया आत्मनो न भिद्यते ; भिद्यते च चैतन्य स्वरूपतया ।

अतः उभयरूपाभ्यां भिन्नाभिन्नत्वमविरुद्धमिति--- तदपि न,

धर्मधर्मित्वाभावात् । तथा हि--- येन रूपेण तदभिन्नं न तेन

रूपेण धर्मत्वम् अभिन्नत्वादवोचाम । येन रूपेण भिन्नम्,
,
तेनापि न धर्मः, भिन्नत्वाद्टादिवदित्युक्तम् । यञ्च्चोक्तम्

उभयरूपाभ्यां भिन्नाभिन्नत्वमिति, तदपि विचारं न सहते ।

ते रूपे किं चैतन्याद्भिन्ने, अभिन्ने, भिन्नाभिन्ने वा । तत्र न

तावद्भिन्ने, भिन्नत्वे घटादिवद किंचित्करत्वात्; अभिन्नत्वे

चैतन्यमात्रमेवेति न ताभ्यां भिन्नाभिन्नत्वम् । भिन्नाभिन्नत्वं
 
-
 
</p>
</page>