2026-03-26 03:47:32 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>हस्तामलकीयभाष्यम् ।
१६७
</ignore>
<p merge-next="
true">आत्मनश्चैतन्यं भिन्नम् अभिन्नं वा भिन्नाभिन्नं वा ।
तत्र न तावद्भिन्नमम्; भिन्नं चेत्, घटवदात्मधर्मत्वानुपपत्तेः ।
ननु घट: असंबन्धात् आत्मधर्मो न भवति, चैतन्यं तु
आत्मसंबन्धीति युक्तमात्मधर्मत्वम् इत्यपि न संबन्धानुप-
पत्तेः । संबन्धो हि तावत् संयोगो वा समवायो वा स्यात्,
संबन्धान्तरस्य अत्र असंभवात् । न तावत्संयोगः, तस्य द्रव्य-
मात्रधर्मत्वात्, अद्रव्यत्वाच्चैतन्यस्य । नापि समवायः, अन-
वस्थापातात् । समवायो हि संबद्धः समवायिनौ संबध्नाति,
असंबद्धो वा!? न तावदसंबद्ध:, घटादिवदकिंचित्करत्वात् ।
संबद्धश्चेत्, संयोगादेरभावेन समवायस्यापि समवायान्तर-
मभ्युपगन्तव्यम् । एवं परंपरापेक्षायाम् अनवस्थापात इति
यत्किंचिदेतत् । तस्माद्भिन्नत्वपक्षे धर्मधर्मिभाव:वः सर्वथा
नोपपद्यते । अभिन्नत्वपक्षे तु बोधस्य आत्मरूपत्वेन सुतरां
धर्मधर्मिभावो नास्त्येव । न हि तस्य तदेव धर्मो भवति
;
न हि शुकंक्लं शुकस्य धर्मोंक्लस्य धर्मो भवतीति । तस्मात् भिन्नाभिन्नत्व-
पक्ष एव अवशिष्यते । स च विरोधान्न युज्यते --- न ह्येक-
मेवैकस्मात् भिन्नमभिन्नं च भवितुमर्हति, विरोधात् ।
अथोच्यते--- प्रत्यक्षसिद्धत्वात् भेदाभेदौ अविरुद्धौ । तथाहि
--- गौरियमिति पिण्डाव्यतिरेकेण गोत्वं प्रतीयते ; तदेव
;
</p>
</page>
<ignore>हस्तामलकीयभाष्यम् ।
<p merge-next="
तत्र न तावद्भिन्न
ननु घट: असंबन्धात् आत्मधर्मो न भवति, चैतन्यं तु
आत्मसंबन्धीति युक्तमात्मधर्मत्वम् इत्यपि न संबन्धानुप-
पत्तेः । संबन्धो हि तावत् संयोगो वा समवायो वा स्यात्,
संबन्धान्तरस्य अत्र असंभवात् । न तावत्संयोगः, तस्य द्रव्य-
मात्रधर्मत्वात्, अद्रव्यत्वाच्चैतन्यस्य । नापि समवायः, अन-
वस्थापातात् । समवायो हि संबद्धः समवायिनौ संबध्नाति,
असंबद्धो वा
संबद्धश्चेत्, संयोगादेरभावेन समवायस्यापि समवायान्तर-
मभ्युपगन्तव्यम् । एवं परंपरापेक्षायाम् अनवस्थापात इति
यत्किंचिदेतत् । तस्माद्भिन्नत्वपक्षे धर्मधर्मिभा
नोपपद्यते । अभिन्नत्वपक्षे तु बोधस्य आत्मरूपत्वेन सुतरां
धर्मधर्मिभावो नास्त्येव । न हि तस्य तदेव धर्मो भवति
न हि शु
पक्ष एव अवशिष्यते । स च विरोधान्न युज्यते