2026-02-24 05:33:10 by ambuda-bot
This page has not been fully proofread.
हस्तामलकीयभाष्यम् ।
१६७
"
आत्मनश्चैतन्यं भिन्नम् अभिन्नं वा भिन्नाभिन्नं वा ।
तत्र न तावद्भिन्नम; भिन्नं चेत्, घटवदात्मधर्मत्वानुपपत्तेः ।
ननु घट: असंबन्धात् आत्मधर्मो न भवति, चैतन्यं तु
आत्मसंबन्धीति युक्तमात्मधर्मत्वम् इत्यपि न संबन्धानुप-
पत्तेः । संबन्धो हि तावत् संयोगो वा समवायो वा स्यात्,
संबन्धान्तरस्य अत्र असंभवात् । न तावत्संयोगः, तस्य द्रव्य-
मात्रधर्मत्वात्, अद्रव्यत्वाच्चैतन्यस्य । नापि समवायः, अन-
वस्थापातात् । समवायो हि संबद्धः समवायिनौ संबध्नाति,
असंबद्धो वा ! न तावदसंबद्ध:, घटादिवदकिंचित्करत्वात् ।
संबद्धश्चेत्, संयोगादेरभावेन समवायस्यापि समवायान्तर-
मभ्युपगन्तव्यम् । एवं परंपरापेक्षायाम् अनवस्थापात इति
यत्किंचिदेतत् । तस्माद्भिन्नत्वपक्षे धर्मधर्मिभाव: सर्वथा
नोपपद्यते । अभिन्नत्वपक्षे तु बोधस्य आत्मरूपत्वेन सुतरां
धर्मधर्मिभावो नास्त्येव । न हि तस्य तदेव धर्मो भवति
न हि शुकं शुकस्य धर्मों भवतीति । तस्मात् भिन्नाभिन्नत्व-
पक्ष एव अवशिष्यते । स च विरोधान्न युज्यते - न ह्येक-
मेवैकस्मात् भिन्नमभिन्नं च भवितुमर्हति विरोधात् ।
अथोच्यते- प्रत्यक्षसिद्धत्वात् भेदाभेदौ अविरुद्धौ । तथाहि
- गौरियमिति पिण्डाव्यतिरेकेण गोत्वं प्रतीयते ; तदेव
;