2026-03-26 03:44:45 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१६६
हस्तामलकीयभाष्यम् ।
</ignore>
<p merge-next="true">त्वम् ? बोधो हि नाम ज्ञानम् ; तश्च्च इन्द्रियार्थसंनिकर्षा-
दिना जायते समुत्पद्यते ; उत्पन्नं च ज्ञानं स्वकार्येण
संस्कारेण विरोधिना ज्ञानान्तरेण वा विनश्यति ; अतः
उत्पत्तिनाशधर्मवत्त्वात् न नित्यं भवितुमर्हति ; नापि
बोधस्वरूपत्वमात्मन उपपद्यते, नित्यत्वादात्मनः, अनित्य-
त्वाच्च बोधस्य ; न हि नित्यानित्ययोरेकस्वभावत्वम्, विरोधा-
तू
त् इति । अत्रोच्यते --- बोधो हि नाम चैतन्यमभिप्रेतम् ;
न च ज्ञानं चैतन्यम्, जन्यज्ञानस्य ज्ञेयत्वेन घटादिवज्ज-
डत्वात् । ज्ञेयं हि ज्ञानम्, घटज्ञानं मे जातं पटज्ञानं मे
जातमिति साक्षादनुभूयमानत्वात् । अतः तस्य अनित्य-
त्वेन अनात्मम्स्वरूपत्वेऽपि, नित्यबोधस्वरूपत्वम् आत्मन
उपपद्यते । ननु आत्मन:नः चेतनत्वे किं प्रमाणमिति
चेत्, जगत्प्रकाश इति ब्रूमः ।
जगत् प्रकाशत इति
सर्वजनसिद्धमम्; तत्र ज्ञानादीनां ज्ञेयत्वेन जडत्वात्,
आत्मप्रकाशेनैव जगत प्रकाशत इति निश्चितं भवति ।
आत्मा च स्वपरप्रकाशवान् सवितृप्रकाशवत्-
-
-- यथा
सविता स्वयं प्रकाशमानो जगदपि प्रकाशयति, तथा
आत्मापीति । अस्तु तर्हि चिद्धर्मा पुरुषः, कथमयं चित्स्व-
भाव इति; न धर्मधर्मिभावस्य अनुपपत्तेः । तथा हि-
--</p>
</page>
<ignore>१६६
<p merge-next="true">त्वम् ? बोधो हि नाम ज्ञानम् ; त
दिना जायते समुत्पद्यते ; उत्पन्नं च ज्ञानं स्वकार्येण
संस्कारेण विरोधिना ज्ञानान्तरेण वा विनश्यति ; अतः
उत्पत्तिनाशधर्मवत्त्वात् न नित्यं भवितुमर्हति ; नापि
बोधस्वरूपत्वमात्मन उपपद्यते, नित्यत्वादात्मनः, अनित्य-
त्वाच्च बोधस्य ; न हि नित्यानित्ययोरेकस्वभावत्वम्, विरोधा-
तू
त् इति । अत्रोच्यते --- बोधो हि नाम चैतन्यमभिप्रेतम् ;
न च ज्ञानं चैतन्यम्, जन्यज्ञानस्य ज्ञेयत्वेन घटादिवज्ज-
डत्वात् । ज्ञेयं हि ज्ञानम्, घटज्ञानं मे जातं पटज्ञानं मे
जातमिति साक्षादनुभूयमानत्वात् । अतः तस्य अनित्य-
त्वेन अनात्म
उपपद्यते । ननु आत्म
चेत्, जगत्प्रकाश इति ब्रूमः ।
सर्वजनसिद्ध