This page has been fully proofread once and needs a second look.

<page>
<ignore>
१६४
 
हस्तामलकीयभाष्यम् ।
 
</ignore>
<verse>
निमित्तं मनश्चक्षुरादिप्रवृत्तौ
 

निरस्ताखिलोपाधिराकाशकल्पः ।

रविर्लोकचेष्टानिमित्तं यथा यः
 

स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १ ॥
 
</verse>
<p merge-next="true">
ननु सर्वत्र प्ग्रन्थादौ शिष्टानामिष्टदेवतास्तुतिनमस्कारपू-

र्विका प्रवृत्तिरुपलब्धा ; अयं च विना स्तुतिनमस्कारौ

प्रवर्तमानोऽशिष्टत्वात् अनादरणीयवचन:नः प्रसज्येतेति चेत्-
--
; स्तुतिनमस्कारयोस्त्रैविध्यात् ; त्रिविधौ हि स्तुतिनमस्का-

रौ --- कायिकौ वाचिकौ मानसिकौ चेति । तत्र कायिकवा -
-
चिकयोरभावेऽपि परमशिष्टत्वादाचार्यस्य ग्रन्थस्य अविघ्नेन

परिसमाप्तेश्च मानसिकौ स्तुतिनमस्कारावकरोद्यमाचार्य

इत्यवगम्यते ; यत्किंचिदेतत् । प्रकृतमनुसराम: - मनश्च
मः --- मनश्च
चक्षुश्च मनश्चक्षुषी, ते आदिर्येषां तानि मनश्चक्षुरादीनि ;

आदिशब्दः प्रत्येकमभिसंबध्यते ; ततश्च अयमर्थो भवति-
--
मनआदीनां मनोऽहंकारबुद्धिचित्तानां चतुर्णामन्तः करणा-

नाम्, तथा चक्षुरादीनां चक्षुस्त्वक्श्रोत्रजिह्वाम्राणानां पञ्चबु-

द्धीन्द्रियाणाम्, एवं वाक्पाणिपादपायूपस्थानां पञ्चकर्मेन्द्रि
ग्रा
-
या
णाम्, प्रवृत्तौ स्वस्वव्यापारे, निमित्तं हेतुः यः, सोऽहमात्मेति
 
</p>
</page>