This page has been fully proofread once and needs a second look.

<page>
<ignore>
९८
 
प्रश्नोत्तररत्नमालिका ।
 
</ignore>
<verse>
कस्मात्सिद्धिस्तपसो
 

बुद्धिः क्व नु भूसुरे कुतो बुद्धि: ।
 
धिः ।
वृद्धोपसेवया के
 

वृद्धा ये धर्मतत्त्वज्ञाः ॥ ४३ ॥
 
</verse>
<verse>
संभावितस्य मरणा-
 

दधिकं किं दुर्यशो भवति ।
 

लोके सुखी भवेत्को
 

धनवान्धनमपि च किं यतश्रेष्ठम ॥ ४४ ॥
 
म् ॥ ४४ ॥</verse>
<verse>
सर्वसुखानां बीजं
 

किं पुण्यं दुःखमपि कुतः पापात् ।
 

कस्यैश्वर्यं यः किल
 

शंकरमाराधयेद्भक्त्या ॥ ४५ ॥
 
</verse>
<verse>
को वर्धते विनीतः
 

को वा हीयेत यो दृप्तः ।
 

को न प्रत्येतव्यो
 

ब्रूते यश्चानृतं शश्वत् ॥ ४६ ॥
 
</verse>
</page>