This page has not been fully proofread.

प्रश्नोत्तररत्नमालिका !
 
का कल्पलता लोके
 
सच्छिष्यायार्पिता विद्या ।
 
कोऽक्षयवटवृक्षः स्या-
 
द्विधिवत्सत्पात्रदत्तदानं यत् ॥ ३९ ॥
 
किं शस्त्रं सर्वेषां
 
युक्तिर्माता च का धेनुः ।
 
किं नु बलं यद्धैर्य
 
को मृत्युर्यदवधानरहितत्वम् ॥ ४० ॥
 
कुत्र विषं दुष्टजने
 
किमिहाशौचं भवेदृणं नृणाम् ।
 
किमभयमिह वैराग्यं
 
भयमपि किं वित्तमेव सर्वेषाम् ॥ ४१ ॥
 
का दुर्लभा नराणां
 
हरिभक्ति: पातकं च किं हिंसा ।
 
को हि भगवत्प्रियः स्या-
 
द्योऽन्यं नोद्वेजयेदनुद्विः ॥ ४२ ॥
 
९७