This page has not been fully proofread.

९२
 
प्रश्नोत्तररत्नमालिका ।
 
कस्मै नमांसि देवा:
 
कुर्वन्ति दयाप्रधानाय ।
कस्मादुद्वेगः स्या-
 
त्संखारारण्यतः सुधियः ॥ १९ ॥
 
कस्य वशे प्राणिगण:
 
सत्यप्रियभाषिणो विनीतस्य ।
 
क स्थातव्यं न्याय्ये
 
पथि दृष्टादृष्टलाभाठ्ये ॥ २० ॥
 
कोऽन्धो योऽकार्यरत:
 
को बधिरो यो हितानि न शृणोति ।
 
को मूको य: काले
 
प्रियाणि वक्तुं न जानाति ॥ २१ ॥
 
किं दानमनाकाङ्क्ष
 
किं मित्रं यो निवारयति पापात् ।
 
कोऽलंकारः शीलं
 
किं वाचां मण्डनं सत्यम् ॥ २२ ॥