This page has not been fully proofread.

प्रश्नोत्तररत्रमालिका ।
 
८९
 
कस्माद्भयमिह मरणा-
 
दधादिह को विशिष्यते रागी ।
 
कः शूरो यो ललना-
 
लोचनबाणैर्न च व्यधितः ॥ ७ ॥ ●
 
पातुं कर्णाञ्जलिभिः
 
किममृतमिह युज्यते सदुपदेशः ।
 
किं गुरुताया मूलं
 
यदेतदप्रार्थनं नाम ॥ ८ ॥
 
किं गहनं स्त्रीचरितं
 
कश्चतुरो यो न खण्डितस्तेन ।
 
किं दुःखमसंतोषः
 
किं लाघवमधमतो याच्या ॥ ९ ॥
 
किं जीवितमनवद्यं
 
किं जाड्यं पाठतोऽप्यनभ्यासः ।
 
को जागर्ति विवेकी
 
का निद्रा
 
मूढता
 
जन्तोः ॥ १० ॥