This page has been fully proofread once and needs a second look.

<page>
<ignore>
शतश्लोकी ।
 
७१</ignore>
<verse>
स्वं बालं रोदमानं चिरतरसमयं शान्तिमानेतुमग्रे

द्राक्षं खार्जूरमात्रं सुकदलमथवा योजयत्यम्बिकास्य ।
'तद्व

तद्वच्चे
तोऽतिमूढं बहुजननभवान्मौढ्यसंस्कारयोगा-
 

द्बोधोपायैरनेकैरवशमुपनिषद्बोधयामास सम्यक् ॥ ८ ॥
 
७ १
 
</verse>
<verse>
यत्प्रीत्या प्रीतिमात्रं तनुयुवतितनूजार्थमुख्यं स तस्मा-
त्

त्प्रे
यानात्माथ शोकास्पदमितरदतः प्रेय एतत्कथं स्यात् ।

भार्याद्यं जीवितार्थी वितरति च वपुः स्वात्मनः श्रेय इच्छं-

स्तस्मादात्मानमेव प्रियमधिकमुपासीत विद्वान्न चान्यत् ॥
 
</verse>
<verse>
यस्माद्यावत्प्रियं स्यादिह हि विषयतस्तान्नदस्मिन्प्रियत्वं

यावद्दुःखं च यस्माद्भवति खलु ततस्तावदेवाप्रियत्वम् ।

नैकस्मिन्सर्वकालेऽस्त्युभयमपि कदाप्यप्रियोऽपि प्रियः स्या-
स्

त्
प्रेयानप्यप्रियो वा सततमपि ततः प्रेय आत्माख्यवस्तु ॥
 
</verse>
<verse>
श्रेयः प्रेयश्च लोके द्विविधमभिहितं काम्यमात्यन्तिकं च

काम्यं दुःखैकबीजं क्षणलवविरसं तच्चिकीर्षन्ति मन्दाः ।

ब्रह्मैवात्यन्तिकं यन्निरतिशय सुखस्यास्पदं संश्रयन्ते
 

तत्त्वज्ञास्तच्च काठोपनिषदभिहितं षड्विधायां च वल्ल्याम् ॥
 
</verse>
</page>