2026-02-24 05:23:10 by ambuda-bot
This page has not been fully proofread.
शतश्लोकी ।
स्वं बालं रोदमानं चिरतरसमयं शान्तिमानेतुमग्रे
द्राक्षं खार्जूरमात्रं सुकदलमथवा योजयत्यम्बिकास्य ।
'तद्वतोऽतिमूढं बहुजननभवान्मौढ्यसंस्कारयोगा-
द्बोधोपायैरनेकैरवशमुपनिषद्बोधयामास सम्यक् ॥ ८ ॥
७ १
यत्प्रीत्या प्रीतिमात्रं तनुयुवतितनूजार्थमुख्यं स तस्मा-
त्यानात्माथ शोकास्पदमितरदतः प्रेय एतत्कथं स्यात् ।
भार्या जीवितार्थी वितरति च वपुः स्वात्मनः श्रेय इच्छं-
स्तस्मादात्मानमेव प्रियमधिकमुपासीत विद्वान्न चान्यत् ॥
यस्माद्यावत्प्रियं स्यादिह हि विषयतस्तान्नदस्मिन्प्रियत्वं
यावद्दुःखं च यस्माद्भवति खलु ततस्तावदेवाप्रियत्वम् ।
नैकस्मिन्सर्वकालेऽस्त्युभयमपि कदाप्यप्रियोऽपि प्रियः स्या-
स्प्रेयानप्यप्रियो वा सततमपि ततः प्रेय आत्माख्यवस्तु ॥
श्रेयः प्रेयच लोके द्विविधमभिहितं काम्यमात्यन्तिकं च
काम्यं दुःखैकबीजं क्षणलवविरसं तच्चिकीर्षन्ति मन्दाः ।
ब्रह्मैवात्यन्तिकं यन्निरतिशय सुखस्यास्पदं संश्रयन्ते
तत्त्वज्ञास्तच्च काठोपनिषदभिहितं षड्विधायां च वल्ल्याम् ॥