This page has been fully proofread once and needs a second look.

<page>
<ignore>
७०
 

शतश्लोकी ।
 
</ignore>
<verse>
आत्मा चिद्वित्सुखात्मानुभवपरिचितः सर्वदेहादियन्ता

सत्येवं मूढबुद्धिर्भजति ननु जनोऽनित्यदेहात्मबुद्धिम् ।

बाह्योऽस्थिस्नायुमज्जा पलरुधिरवसाचर्ममेदोयुगन्त-

र्विण्मूत्रश्लेष्मपूर्णं स्वपरवपुरहो संविदित्वापि भूयः ॥ ४ ॥
 
</verse>
<verse>
देहस्त्रीपुत्रमित्रानुचरहयवृषा स्तोषहेतुर्ममेत्थं
 

सर्वे स्वायुर्नन्ति प्रथितमलममी मांसमीमांसयेह ।

एते जीवन्ति येन व्यवहृतिपटवो येन सौभाग्यभाज-

स्तं प्राणाधीशमन्तर्गतममृतममुं नैव मीमांसयन्ति ॥ ५ ॥
 
</verse>
<verse>
कश्चित्कीटः कथंचित्पटुमतिरभितः कण्टकानां कुटीरं

कुर्वंस्तेनैव साकं व्यवहृतिविधये चेष्टते यावदायुः ।

तद्वज्जीवोऽपि नानाचरितसमुदितैः कर्मभिः स्थूलदेहं

निर्माायात्रैव तिष्ठन्ननुदिनममुना साकमभ्येति भूमौ ॥ ६ ॥
 
</verse>
<verse>
स्वीकुर्वन्व्याघ्रवेषं स्वजठरभृतये भीषयन्यश्च मुग्धा-
 

न्मत्वा व्याघ्रोऽहमित्थं स नरपशुमुखान्बाधते किं नु सत्त्वान्

मत्वा स्त्रीवेषधारी स्त्र्यहमिति कुरुते किं नटो भर्तुरिच्छां

तद्वच्छारीर आत्मा पृथगनुभवतो देहतो यत्स साक्षी ॥ ७ ॥
 
</verse>
</page>