2026-02-24 05:23:09 by ambuda-bot
This page has not been fully proofread.
७०
शतश्लोकी ।
आत्मा चिद्वित्सुखात्मानुभवपरिचितः सर्वदेहादियन्ता
सत्येवं मूढबुद्धिर्भजति ननु जनोऽनित्यदेहात्मबुद्धिम् ।
बाह्योऽस्थिस्नायुमज्जा पलरुधिरवसाचर्ममेदोयुगन्त-
र्विण्मूत्रश्लेष्मपूर्ण स्वपरवपुरहो संविदित्वापि भूयः ॥ ४ ॥
देहत्रीपुत्रमित्रानुचरहयवृषा स्तोषहेतुर्ममेत्थं
सर्वे स्वायुर्नन्ति प्रथितमलममी मांसमीमांसयेह ।
एते जीवन्ति येन व्यवहतिपटवो येन सौभाग्यभाज-
स्तं प्राणाधीशमन्तर्गतममृतममुं नैव मीमांसयन्ति ॥ ५ ॥
कश्चित्कीटः कथंचित्पटुमतिरभितः कण्टकानां कुटीरं
कुर्वस्तेनैव साकं व्यवहृतिविधये चेष्टते यावदायुः ।
तद्वज्जीवोऽपि नानाचरितसमुदितैः कर्मभिः स्थूलदेहं
निर्माात्रैव तिष्ठन्ननुदिनममुना साकमभ्येति भूमौ ॥ ६ ॥
स्वीकुर्वन्व्याघ्रवेषं स्वजठरभृतये भीषयन्यश्च मुग्धा-
न्मत्वा व्याघ्रोऽहमित्थं स नरपशुमुखान्बाधते किं नु सत्त्वान ।
मत्वा स्त्रीवेषधारी स्त्र्यहमिति कुरुते किं नटो भर्तुरिच्छां
तद्वच्छारीर आत्मा पृथगनुभवतो देहतो यत्स साक्षी ॥ ७ ॥