This page has been fully proofread once and needs a second look.

॥ T: ॥
 
<page>
<subtitle>॥ श्रीः ॥</subtitle>
<title>
॥ शतश्लोकी ॥
 
</title>
<verse>
दृष्टान्तो नैव दृष्टत्रिभुवनजठरे सद्गुरोर्ज्ञानदातुः

स्पर्शश्चेत्तत्र कल्प्यः स नयति यदहो स्वर्णतामश्मसारम् ।

न स्पर्शत्वं तथापि श्रितचरणयुगे सद्गुरुः स्वीयशिष्ये
स्व

स्वी
यं साम्यं विधत्ते भवति निरुपमस्तेन वालौकिकोऽपि ॥
 
</verse>
<verse>
यद्वच्छ्रीखण्डवृक्षप्रसृतपरिमलेनाभितोऽन्येऽपि वृक्षाः

शश्वत्सौगन्ध्य भाजोऽप्यतनुतनुभृतां तापमुन्मूलयन्ति ।

आचार्यान्ल्लब्धबोधा अपि विधिवशतः संनिधौ संस्थितानां

त्रे
धा तापं च पापं सकरुणहृदयाः स्वोक्तिभिः क्षालयन्ति ॥
 
</verse>
<verse>
आत्मानात्मप्रतीतिः प्रथममभिहिता सत्यमिध्यात्वयोगा-

द्द्वे
धा ब्रह्मप्रतीतिर्निगमनिगदिता स्वानुभूत्योपपत्त्या ।

आद्या देहानुबन्धाद्भवति तदपरा सा च सर्वात्मकत्वा-

दादौ ब्रह्माहमस्मीत्यनुभव उदिते खल्विदं ब्रह्म पश्चात् ॥
 
</verse>
</page>