This page has not been fully proofread.

॥ T: ॥
 
॥ शतश्लोकी ॥
 
दृष्टान्तो नैव दृष्टत्रिभुवनजठरे सद्गुरोर्ज्ञानदातुः
स्पर्शश्चेत्तव कल्प्यः स नयति यदहो स्वर्णतामश्मसारम् ।
न स्पर्शत्वं तथापि श्रितचरणयुगे सद्गुरुः स्वीयशिष्ये
स्वयं साम्यं विधत्ते भवति निरुपमस्तेन वालौकिकोऽपि ॥
 
यद्वच्छ्रीखण्डवृक्षप्रसृतपरिमलेनाभितोऽन्येऽपि वृक्षाः
शश्वत्सौगन्ध्य भाजोऽप्यतनुतनुभृतां तापमुन्मूलयन्ति ।
आचार्यान्धबोधा अपि विधिवशतः संनिधौ संस्थितानां
धा तापं च पापं सकरुणहृदयाः स्वोक्तिभिः क्षालयन्ति ॥
 
आत्मानात्मप्रतीतिः प्रथममभिहिता सत्यमिध्यात्वयोगा-
धा ब्रह्मप्रतीतिर्निगमनिगदिता स्वानुभूत्योपपत्त्या ।
आद्या देहानुबन्धाद्भवति तदपरा सा च सर्वात्मकत्वा-
दादौ ब्रह्माहमस्मीत्यनुभव उदिते खल्विदं ब्रह्म पश्चात् ॥