2026-02-24 05:23:08 by ambuda-bot
This page has not been fully proofread.
आत्मबोधः ।
स्वयमन्तर्बहिर्व्याप्य भासयन्नखिलं जगत् ।
ब्रह्म प्रकाशते वह्निप्रतप्रायसपिण्डवत् ॥ ६२ ।
जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किंचन ।
ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमरीचिका ॥ ६३ ॥
दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् ।
तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्वयम् ॥ ६४ ॥
सर्वगं सच्चिदानन्दं ज्ञानचक्षुर्निरीक्षते ।
अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥ ६५ ॥
श्रवणादिभिरुद्दीप्त-
ज्ञानाग्निपरितापित: ।
जीव: सर्वमलान्मुक्तः
स्वर्णवद्द्योतते स्वयम् ॥ ६६ ॥
हृदाकाशोदितो ह्यात्मा
बोधभानुस्तमोपहृत् ।
सर्वव्यापी सर्वधारी
भाति भासयतेऽखिलम् ॥ ६७ ॥
S. P. II. 5
६५